द्रुहिणः

सुधाव्याख्या

द्रुह्यति दुष्टेभ्यः । ‘बृह जिघांसायाम्' (दि० प० से०) । दुहक्षिभ्यामिनन्' (उ० २.५०) इतीनन् इति मुकुटः तन्न । 'द्रुदक्षिभ्याम्’ इति तत्र पाठात् । 'द्रविणं दक्षिणा इत्युदाहरणात् । अतः ‘बहुलमन्यत्रापि’ (उ० २.४९) इतीनच् । बाहुलकाद्गुणाभावः 'द्रुघणः’ अपि । ब्रह्मात्मभूः स्याद्द्रुहिणो द्रुघणश्च पितामह: इति भागुरेः। ’करणेऽयोविद्रुषु’ (३.३.८२) इति हन्तेः करणेऽप् घनादेशश्च । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेनेत्यर्थः ('द्रुघणो मुद्गरेऽपि स्याद्द्रुहिणे च परश्वघे') ॥