विरिञ्चिः

सुधाव्याख्या

विरचयतीति विरिञ्चिः। 'रच प्रतियत्ने’ (चु० उ० से०) । स्वार्थण्यन्तात् । 'अच इः’ (उ० ४. १३९) । पृषोदरादित्वात् (६.३.१०९) अकारस्येत्वं नुमागमश्च । (क्वचिदित्वाभावे 'विरञ्चिः’ अपि । चिरं विरञ्चिनं चिरं विरञ्चिः इत्यादौ प्रयोगदर्शनात् । पचाद्यचि (३.१.१३४) ‘विरिञ्चः’ अपि । (‘विरिञ्चो द्रुहिणः शिञ्जो विरिञ्चिर्द्रुघणो मतः’ इति शब्दार्णवात् । यत्तु—‘रिच वियोजन- संयमनयो: चुरादिः। ‘अच इः' (उ० ४.१३९)। पृषोदरादित्वात् (६.३.१०९) नुम्, कुञ्जरवदुपधाह्रस्वत्वं च इति मुकुटः। तन्न । ‘रिच वियोजनसंपर्चनयोः' इति चुरादौ पाठदर्शनाद्ध्रस्वविधानस्यानुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र ह्रस्वविधानाभावात् ॥


प्रक्रिया

धातुः - रच प्रतियत्ने


वि+रच+णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वि+रच+इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि+रच्+इ - अतो लोपः 6.4.48
वि+रच्+इ+इ - अच इः (४.१३९) । उणादिसूत्रम् ।
वि+रच्+इ - णेरनिटि 6.4.51
वि+रि+नुम्+च्+इ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
वि+रि+न्+च्+इ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विरिंचि - नश्चापदान्तस्य झलि 8.3.24
विरिञ्चि - अनुस्वारस्य ययि परसवर्णः 8.4.58
विरिञ्चि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विरिञ्चि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विरिञ्चि + रु - ससजुषो रुः 8.2.66
विरिञ्चि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विरिञ्चिः - खरवसानयोर्विसर्जनीयः 8.3.15