वेधाः

सुधाव्याख्या

विदधाति । ‘विधाञो वेध च' (उ० ४.२२५) इति वेधादेशोऽसिप्रत्ययश्च । मुकुटस्तु असुन् इत्याह तन्न । (६.१.१९७) आद्युदात्तत्वापत्तेः। 'मिथुनेऽसिः’ (उ० ४.२२३) इत्युपक्रमाच्च 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि') ॥