अमरकोशः


श्लोकः

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः । सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मालुधान मालुधानः पुंलिङ्गः मालुरोषधी । तत्र धानमस्य । अकारान्तः
2 मातुलाहि मातुलाहिः पुंलिङ्गः मां तुलयति । कः कृत् इकारान्तः
3 निर्मुक्त निर्मुक्तः पुंलिङ्गः अमोचि । समासः अकारान्तः
4 मुक्तकञ्चुक मुक्तकञ्चुकः पुंलिङ्गः मुक्तः कञ्चुको येन । बहुव्रीहिः समासः अकारान्तः
5 सर्प सर्पः पुंलिङ्गः अच् कृत् अकारान्तः
6 पृदाकु पृदाकुः पुंलिङ्गः पर्दते। काकु उणादिः उकारान्तः
7 भुजग भुजगः पुंलिङ्गः भुजः सन् गच्छति । कः , ङः कृत् अकारान्तः
8 भुजङ्ग भुजङ्गः पुंलिङ्गः खच् अकारान्तः
9 अहि अहिः पुंलिङ्गः आहन्ति । इन् उणादिः इकारान्तः
10 भुजङ्गम भुजङ्गमः पुंलिङ्गः खच् कृत् अकारान्तः