भुजगः

सुधाव्याख्या

‘भुजो कौटिल्ये’ (तु० प० अ०) । इगुपधत्वात् (३.१.१३५) कः । भुजः सन् गच्छति । ‘अन्यत्रापि (वा० ३.२.४८) इति ङः ।


प्रक्रिया

धातुः - भुजोँ कौटिल्ये , गमॢँ गतौ


भुजोँ कौटिल्ये
भुज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुज् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
भुज् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुज + सु + गम् + ड – अन्यत्रापि दृश्यत इति वक्तव्यम् (3.2.48) । वार्तिकम् ।, उपपदमतिङ् 2.2.19
भुज + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
भुज + गम् + अ चुटू 1.3.7, तस्य लोपः 1.3.9
भुज + ग् + अ - टेः 6.4.143
भुजग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भुजग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजग + रु - ससजुषो रुः 8.2.66
भुजग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजगः - खरवसानयोर्विसर्जनीयः 8.3.15