पृदाकुः

सुधाव्याख्या

पर्दते। ‘पर्द कुत्सिते शब्दे’ (भ्वा० आ० से०) । ‘पर्देर्नित्संप्रसारणमल्लोपश्च' (उ० ३.८०) इति काकुः प्रत्ययः । पिपर्ति स्वम् । पिपर्तेर्दाकुर्ह्रस्वश्च' (*) इति वा । ‘पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयो: पुमान् ।