मालुधानः

सुधाव्याख्या

माल्विति । मालुरोषधी । तत्र धानमस्य । ‘मालुधानश्चित्र सर्पे महापद्मे च दृश्यते’ इत्युत्पलिनी । मालुधानो मातुलाहौ मालुधानी लतान्तरे' इति विश्वः ।