भुजङ्गः

सुधाव्याख्या

‘भुजेन कौटिल्येन गच्छति’ वा । गमेः सुपि 'खच्च डिद्वा' (वा ३.२.३८) इति खचि डित्वे टिलोपे भुजंगः । ‘भुजंगः सर्पखिङ्गयोः इति हैमः ।


प्रक्रिया

धातुः - गमॢँ गतौ


गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुज + अम् + गम् + खच् - खच्च डिद्वा वक्तव्यः (3.2.38) । वार्तिकम् । उपपदमतिङ् 2.2.19
भुज + गम् + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
भुज + गम् + अ - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भुज + ग् + अ - टेः 6.4.143
भुज + मुम् + ग - अरुर्द्विषदजन्तस्य मुम् 6.3.67
भुज + म् + ग - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजंग - नश्चापदान्तस्य झलि 8.3.24
भुजङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
भुजङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भुजङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजङ्ग + रु - ससजुषो रुः 8.2.66
भुजङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15