सर्पः

सुधाव्याख्या

सर्प इति । सर्पति । ‘सृप्लृ गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) । 'इगुपध-(३.१.१३५) इति को वा । 'नोक्तमनित्यम्’ इति गुणः । यद्वा सर्पणम् । भावे घञ् । सर्पः सोऽस्यास्ति । अर्शआद्यच् (५.२.१२७) । स्त्रियां जातित्वान्ङीष् (४.१.६३ ) ।