अमरकोशः


श्लोकः

क्षेत्रज्ञ आत्मा पुरुष: प्रधानं प्रकृतिः स्त्रियाम् । विशेष: कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षेत्रज्ञ क्षेत्रज्ञः पुंलिङ्गः क्षीयते इति क्षेत्रं शरीरम् । तज्जानाति । तत्पुरुषः समासः अकारान्तः
2 आत्मन् आत्मा पुंलिङ्गः अतति । मनिण् उणादिः नकारान्तः
3 पुरुष पुरुषः पुंलिङ्गः पुरति । कुषन् उणादिः अकारान्तः
4 प्रधान प्रधानम् नपुंसकलिङ्गः प्रधत्तेऽत्र सर्वम् । ल्युट् कृत् अकारान्तः
5 प्रकृति प्रकृतिः स्त्रीलिङ्गः प्रकृष्टा कृतिः कार्यं यस्याः, प्रकरोतीति वा । बहुव्रीहिः समासः इकारान्तः
6 अवस्था अवस्था स्त्रीलिङ्गः कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था । अङ् कृत् आकारान्तः
7 सत्त्व सत्त्वम् नपुंसकलिङ्गः सतो भावः सत्त्वम् । त्वन् उणादिः अकारान्तः
8 रजस् रजः नपुंसकलिङ्गः रञ्जयति । असुन् उणादिः सकारान्तः
9 तमस् तमः नपुंसकलिङ्गः ताम्यत्यनेन । असुन् उणादिः सकारान्तः