प्रधानम्

सुधाव्याख्या

प्रधत्तेऽत्र सर्वम् । ल्युट् (३.३.११७), प्रधत्ते सर्वमात्मनीति वा । ‘बहुलमन्यत्रापि' (उ० २.७८) इति युच् । प्रकृष्टं धानमनेन वा । ‘प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे’ इति हैम: ।