पुरुषः

सुधाव्याख्या

पुरति । ‘पुर अग्रगमने (तु० प० से०) । ‘पुरः कुषन्' (उ० ४.७४) । ‘अन्येषामपि-' (६.३.१३७) इति दीर्घत्वे पुरुषः’ अपि । पूरयति । ‘पूरी आप्यायने' (दि० आ० से०) । बाहुलकात्कुषन् । ‘पुरुषस्त्वात्मनि नरे पुंनागे च' इति हैमः ।