क्षेत्रज्ञः

सुधाव्याख्या

क्षेत्रज्ञ इति । क्षीयते इति क्षेत्रं शरीरम् । तज्जानाति । ‘ज्ञा अवबोधने’ (क्र्या० प० अ०) । 'आतोऽनुप-' (३.२.३) इति कः । यत्तु - क्षेत्रे जानाति – इति मुकुटः । तन्न । ‘एतद्यो वेत्ति-' इति प्रागुपन्यस्तगीताविरोधात् । ‘क्षेत्रज्ञावात्मनिपुणौ’ इति हैमः ।