सत्त्वम्

सुधाव्याख्या

सतो भावः सत्त्वम् । सीदन्त्यस्मिन् गुणादय इति वा । सदेस्त्वन् (उ० ४.१०५) । सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ।