तमः

सुधाव्याख्या

ताम्यत्यनेन । ‘तमु ग्लानौ’ (दि० प० से०) । असुन् । कप्रत्यये रजतमौ अदन्तपुंलिङ्गावपि । पुष्पे वेशे गुणे चैव रजोऽयं रजसा सह’ इत्युत्पलिनी । रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु' इत्यजयः ।