अवस्था

सुधाव्याख्या

कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था । कालेन निर्वृत्तः । ’निर्वृत्तेऽक्षद्यूतादिभ्य:’ (४.४.१९) इति ठक् । अवपूर्वातिष्ठतेरङ् (३.३.१०६) । व्यवस्थायाम् (१.१.३४) इति ज्ञापकात् ।