चर्मप्रसेविका

सुधाव्याख्या

- चर्मणा प्रसीव्यते । ‘षिवु तन्तुसंताने' (दि० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘संज्ञायाम्' (३.३.१०९) इति ण्वुल् वा ॥


प्रक्रिया

धातुः -


षिवुँ तन्तुसन्ताने
सिव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, धात्वादेः षः सः 6.1.64
चर्म + प्र + सिव् + वुन् – उणादिसूत्रम् । ५.३५ ।
चर्म + प्र + सिव् + वु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चर्म + प्र + सिव् + अक - युवोरनाकौ 7.1.1
चर्मप्रसेवक - पुगन्तलघूपधस्य च 7.3.86
चर्मप्रसेवक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चर्मप्रसेवक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चर्मप्रसेवका - अकः सवर्णे दीर्घः 6.1.101
चर्मप्रसेविका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
चर्मप्रसेविका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चर्मप्रसेविका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चर्मप्रसेविका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68