कर्तरी

सुधाव्याख्या

- कृन्तति । ‘कृती छेदने’ (तु० प० से०) । बाहुलकादरः । यद्वा कर्तनम् । घञ् (३.३.१८) । कर्तं राति । ‘रा दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । गौरादिः (४.१.४१) ॥