वेधनिका

सुधाव्याख्या

- विध्यतेऽनया । ‘विध विधाने' (तु० प० से०) । ल्युट् (३.३.११७) । स्वार्थे कन् (ज्ञापि० ५.४.५) ‘वेधनी तु लास्फोटन्यां स्फोटनी वृषदंशिका' इति वाचस्पतिः ॥


प्रक्रिया

धातुः -


विधँ विधाने
विध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विध् + ल्युट् - करणाधिकरणयोश्च 3.3.117
विध् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विध् + अन - युवोरनाकौ 7.1.1
वेधन - पुगन्तलघूपधस्य च 7.3.86
वेधन + कन् – ज्ञापि ५.४.५
वेधनक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेधनक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वेधनक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वेधनका - अकः सवर्णे दीर्घः 6.1.101
वेधनिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
वेधनिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वेधनिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेधनिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68