मूषा

सुधाव्याख्या

- मूषति । ‘मूष स्तेये' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘मुष स्तेये' (क्र्या० प० से०) । इत्यस्मात् भिदाद्यङि (३.३.१०४) ह्रस्वादिरपि ह्रस्वा मूषा मूषी गौरादिः (४.१.४१) । मूषा । ‘मूषा त्वावर्तनी मूषी' इति शब्दार्णवः । यत्तु–‘मुष स्तेये' (क्र्या० प० मे०) । ‘गुरोश्च हलः' (३.३.१०९) इत्यकारप्रत्ययः । टापि ‘अन्येषामपि-' (६.१.३७) इति दीर्घत्वे मूषा मुषा च–इति मुकुटः । तन्न । गुरुत्वाभावात् । दीर्घस्य धातोः सत्वेन ‘अन्येषामपि-' इत्यस्यानुपयोगाच्च ॥