तैजासावर्तनी

सुधाव्याख्या

- तैजेति । तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् । ‘वृतु वर्तने' (भ्वा० आ० से०) । ण्यन्तः । अधिकरणे ल्युट् (३.३.११७) ॥


प्रक्रिया

धातुः -


वृतुँ वर्तने
वृत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैजस् + आ + वृत् + णिच् - हेतुमति च 3.1.26
तैजस् + आ + वृत् + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैजस् + आ + वर्त् + इ - पुगन्तलघूपधस्य च 7.3.86
तैजस् + आ + वर्त् + इ + ल्युट् - करणाधिकरणयोश्च 3.3.117
तैजस् + आ + वर्त् + ल्युट् - णेरनिटि 6.4.51
तैजस् + आ + वर्त् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैजस् + आ + वर्त् + अन - युवोरनाकौ 7.1.1
तैजसावर्तन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
तैजसावर्तन + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैजसावर्तन् + ई - यस्येति च 6.4.148
तैजसावर्तनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तैजसावर्तनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैजसावर्तनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68