गाङ्गेयम्

सुधाव्याख्या

गङ्गाया अपत्यम् । शुभ्रादित्वात् (४.१.१२३) ढक् । 'यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्बं पर्वते न्यस्तं हिरण्यं समपद्यत' इति वायुपुराणम् । 'गाङ्गेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकसेरुणोः' (इति मेदिनी) ॥