कर्वुरम्

सुधाव्याख्या

कर्वत्यनेन । ‘कर्व दर्पे (भ्वा० प० से०) । मद्गुरादिः (उ० १.४१) । ‘कर्वुरं सलिले हेम्नि कर्वुरः पापरक्षसोः । कर्वुरा कृष्णवृन्तायां शवले पुनरन्यवत्' इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


कर्व दर्पे
कर्व् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्व् + उरच् – उणादि १.४१
कर्व् + उर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कर्वुरम्
x000D