शुष्मम्

सुधाव्याख्या

शुष्यत्यनेनारिः । ‘शुष शोषणे’ (दि० प० अ०) । 'अविसिविसिशुषिभ्यः कित्' (उ० १.१४४) इति मन् । 'शष्मं तेजसि, सूर्ये ना' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


शुषँ शोषणे
शुष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुष् + मन् – अविसिविसिशुषिभ्यः कित् (१.१४४) । उणादिसूत्रम् ।
शुष् + म - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुष्म + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुष्म + अम् - [अतोऽम् 7.1.24](https://ashtadhyayi.com/sutraani/7/1/2
शुष्मम् - अमि पूर्वः 6.1.107