सहः

सुधाव्याख्या

सह्यतेऽनेन । ‘षह अभिभवे' (भ्वा० प० अ०) । असुन् (उ० ४.१८९) । ‘सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः’ इति सान्तेषु हैमः । ‘दण्डोत्पलामुद्गपर्णी कुमारीनखभेषजे । सहा स्त्रियां, बले न स्त्री’ इति रभसाददन्तमपि ॥