द्रविणम्

सुधाव्याख्या

द्रेति । द्रवत्यनेन । 'द्रु गतौ' (भ्वा० प० अ०) । ‘द्रुदक्षिभ्यामिनन्’ (उ० २.५०) । ‘द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यात्’ इति हेमचन्द्रः ॥