पराक्रमः

सुधाव्याख्या

पराक्रम्यतेऽनेन । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । 'पराक्रमो विक्रमे स्यात्सामर्थ्योद्योगयोरपि' इति विश्वः ॥