बलम्

सुधाव्याख्या

वलते(त्य)ऽनेन । 'बल प्राणने’ (भ्वा० प० से०) ‘खनो घ च' (३.३.१२५) इति घः । ‘बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति मेदिनी) ॥