धीरः

सुधाव्याख्या

धियं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । धियमीरयति । 'ईर गतौ’ (अ० आ० से०) । अण् (३.२.१) वा । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम् ॥