कोविदः

सुधाव्याख्या

कौति धर्मादि । ‘कु शब्दे ’ (अ० प० से०) । कवते वा । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । विच् (३.२.७५) । गुणः (७.३.८४) । कोर्वेदस्य विदः । वेत्ति । 'इगुपध-'(३.१.१३५) इति क: । यद्वा कवि वेदे विदा यस्य । विदा ज्ञाने च निर्दिष्ट मनीषायां च योषिति' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कु शब्दे
कु + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
कु + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कु - वेरपृक्तस्य 6.1.67
को - सार्वधातुकार्धधातुकयोः 7.3.84
विदँ ज्ञाने
विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
विद् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
को + ङस् + विद + सु - षष्ठी 2.2.8
को + विद - सुपो धातुप्रातिपदिकयोः 2.4.71
कोविद + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोविद + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोविद + रु - ससजुषो रुः 8.2.66
कोविद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोविदः - खरवसानयोर्विसर्जनीयः 8.3.15