पण्डितः

सुधाव्याख्या

पण्ड्यतेऽनया । ‘पडि गतौ’ (भ्वा० आ० से०) । 'गुरोश्च' (३.३.१०३) इत्यः । ‘पण्डः षण्डे धियि स्त्री स्यात्’ (इति मेदिनी) । पण्डा जातास्य । तारकादित्वात् (५.२.३६) इतच् । यद्वा पण्डते स्म । ‘गत्यर्था–’ (३.४.७४) इति क्तः । इट् (७.३.३५) ॥


प्रक्रिया

धातुः -


पडिँ गतौ
पड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पन्ड् - इदितो नुम् धातोः 7.1.58
पंड् - नश्चापदान्तस्य झलि 8.3.24
पण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पण्ड् + अ - गुरोश्च हलः 3.3.103
पण्ड + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पण्ड + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पण्डा - अकः सवर्णे दीर्घः 6.1.101
पण्डा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पण्डा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पण्डा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
पण्डा + सु + इतच् - तदस्य संजातं तारकादिभ्य इतच् 5.2.36
पण्डा + इतच् - सुपो धातुप्रातिपदिकयोः 2.4.71
पण्डा + इत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पण्ड् + इत - यस्येति च 6.4.148
पण्डित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पण्डित + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पण्डित + रु - ससजुषो रुः 8.2.66
पण्डित + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पण्डितः - खरवसानयोर्विसर्जनीयः 8.3.15