कविः

सुधाव्याख्या

कवते, कौति, वा । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘कु शब्दे (अ० प० अ०) वा । ‘अच इः' (उ० ४.१३९)—कवृ वर्णा’-इति मुकुटश्चिन्त्यः । तस्यौष्ठ्यान्तत्वात्कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् । ‘कविर्वाल्मीकिकाव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' (इति मेदिनी) ॥