विद्वस्

सुधाव्याख्या

वीति । वेत्ति । ‘विद ज्ञाने’ (अ० प० से०) । ‘लटः शतृ’ (३.२१२४) । विदेः शतुर्वसुः (७.१३६) वा । विद्वाञ् ज्ञानिनि धीरे च विद्वानध्यात्मवेदके' इति धरणिः । 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् इति विश्वः ॥