दोषज्ञः

सुधाव्याख्या

दोषं जानाति । ‘आतोऽनुप-'(३.२.१) इति कः ॥


प्रक्रिया

धातुः -


ज्ञा अवबोधने
दोष + अम् + ज्ञा + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
दोष + ज्ञा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
दोष + ज्ञा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दोष + ज्ञ् + अ - आतो लोप इटि च 6.4.64
दोषज्ञ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दोषज्ञ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दोषज्ञ + रु - ससजुषो रुः 8.2.66
दोषज्ञ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दोषज्ञः - खरवसानयोर्विसर्जनीयः 8.3.15
1.   सत्
अस्ति । शता (३.२.१२४) । 'श्नसोरल्लोपः (६.४.१११) । ‘सन्साधौ धीरशस्तयोः मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः स्त्रियाम्' (इति मेदिनी) ॥