जठरः

सुधाव्याख्या

जायतेऽत्र जन्तुर्मलो वा । ‘जनेररष्ठ च’ (उ० ५.३८) इत्यरप्रत्यये ठोऽन्त्यादेशः । ‘जठरो न स्त्रियां कुक्षौ, बद्धकक्खटयोस्त्रिषु’ (इति मेदिनी) । मुकुटस्तु-जनयत्यन्नादिना स्वभरणम् । बाहुलकादरन् । पृषोदरादित्वात् (६.३.१०९) अन्त्यस्य ठः इति । स उक्तसूत्रास्मरणप्रयुक्तः ।-जमत्याहारम् । जठरम्-इति स्वाम्यप्येवम् ॥