उदरम्

सुधाव्याख्या

उदृणाति । ‘ऋ गतौ’ (क्र्या० प० से०) । अच् । (३.१.१३४) । यद्वा उदृच्छति, उदियर्ति, वा । ‘ऋ गतौ (भ्वा०, जु० प० अ०) । अच् (३.१.१३४) । यद्वा उद् दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च’ (उ० ५.१९) । ‘उदरं तुन्दरणयोः’ इति हैमः ॥