चूचुकः

सुधाव्याख्या

च्विति । चूष्यते । ‘चूष पाने’ (भ्वा० प० से०) । बाहुलकादुकः । पृषोदरादिः (६.३.१०९) । ‘चूचु’ इत्यव्यक्तं कायति पीयमानम् । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥