क्रोडः

सुधाव्याख्या

नेति । क्रुध्यते । ‘क्रुड वाल्पेऽदने’ (तु० प० से०) । घञ् (३.३.१९) । मुकुटस्तु-क्रोडति घनीभवति । ‘क्रुड घनत्वे’ । अच् (३.१.१३४)–इत्याह । तन्न । घनत्वार्थस्य ऋदुपधत्वात् । उदुपधत्वेऽपि कुटादित्वेनाचि गुणासंभवाच्च । ‘क्रोडः कोले शनौ क्रोडमङ्के’ इति हैमः । ‘क्रोडः शनौ सूकरे ना, न पुमानङ्गरक्षसोः’ इति मेदिनी ॥