पिचण्डः

सुधाव्याख्या

पीति । अपि चमत्यन्नम् । ञमन्ताड्डः (उ० १.११४) । ‘वष्टि भागुरि-’ इत्यल्लोपः । अपि चण्ड्यतेऽनेन हेतुना । ‘चडि कोपे’ (भ्वा० आ० से०) । ‘पुंसि–’ (३.३.११८) इति घो वा । ‘पिचण्ड उदरे पशोरवयवे पुमान्’ (इति मेदिनी) । (पिचिण्डः, इति) इकारद्वयवत्त्वे तु पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

धातुः -


चमुँ अदने
चम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अपि + चम् + ड - ञमन्ताड्डः (१.११४) । उणादिसूत्रम् ।
अपि + चं + ड - नश्चापदान्तस्य झलि 8.3.24
अपि + चण् + ड - अनुस्वारस्य ययि परसवर्णः 8.4.58
पिचण्ड - वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
पिचण्ड + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिचण्ड + अम् - अतोऽम् 7.1.24
पिचण्डम् - अमि पूर्वः 6.1.107