तुन्दम्

सुधाव्याख्या

तुदति । ‘तुद व्यथने’ (तु० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘आच्छीनद्योः-’ (७. १.८०) इत्यत्र ‘नुम्’ इति योगविभागान्नुम् । यद्वा तर्णोत्यन्नम् ‘तृणु अदने’ (त० उ० से०) । ‘अब्दादयश्च’ (उ० ४.९८) इति साधुः ॥