कफः

सुधाव्याख्या

केति । केन जलेन फलति । ‘फल निष्पत्तौ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा के शिरसि फणति, फक्कति, वा । प्राग्वत् डः (वा० ३.२.१०१) ॥