शुक्रम्

सुधाव्याख्या

श्विति । शोचत्यनेन । ‘शुच शोके’ (भ्वा० प० से०) । शोचयति वा । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति साधुः । ‘शुक्रं तु रेतोऽक्षिरुजोः’ इति हैमः ॥


प्रक्रिया

धातुः -


शुचँ शोके
शुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुच् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
शुच् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुक् + र - चोः कुः 8.2.30
शुक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुक्र + अम् - अतोऽम् 7.1.24
शुक्रम् - अमि पूर्वः 6.1.107