त्वच्

सुधाव्याख्या

स्त्रीति । त्वचति । ‘त्वच संवरणे’ (उ० प० से०) । क्विप् (३.२.१७८) यद्वा तनोति । ‘तनोतेरनश्च वः’ (उ० २.६३) इति चिक् च । ‘त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः’ (इति मेदिनी) । ‘पुंसि-’ (३.३.११८) इति घे ‘त्वच' इत्यदन्तोऽपि । ‘त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्त्रके’ इति धरणिः ॥