वीर्यम्

सुधाव्याख्या

वीरेऽक्लीबे साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । यद्वा वीरयति । वीर्यते । अनेन वा । वा । ‘वीर विक्रान्तौ’ (चु० उ० से०) । अघ्न्यादिः (उ० ५.११२) । ‘अचो यत्’ (३.१.९७) वा । ‘वीर्यं तेजः प्रभावयोः । शुक्रे शक्तौ च’ इति हैमः ॥