प्रच्छदपटः

सुधाव्याख्या

प्रच्छदति । प्रच्छद्येत वा । ‘छद संवरणे’ (चु० उ० से०) । अच् (३.१.१३४) । घः (३.१.११८) वा प्रच्छाद्यतेऽनेन वा । चुरादिण्यन्तात् घः (३.३.१८) ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः । प्रच्छदश्चासौ परश्च ॥ स्त्रीपिधानपटस्य ‘बुरका’ इति ख्यातस्य- इत्यन्ये । -येन तुलशय्यादि प्रच्छाद्यते तस्य इति स्वामी ॥


प्रक्रिया

धातुः -


छदँ अपवारणे
छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + छद् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
प्र + छद् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + तुक् + छद - छे च 6.1.73
प्र + त् + छद - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + द् + छद - झलां जशोऽन्ते 8.2.39
प्र + ज् + छद - स्तोः श्चुना श्चुः 8.4.40
प्र + च् + छद - खरि च 8.4.55
प्रच्छद + सु + पर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
प्रच्छद + पर - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रच्छदपर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रच्छदपर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रच्छदपर + रु - ससजुषो रुः 8.2.66
प्रच्छदपर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रच्छदपरः - खरवसानयोर्विसर्जनीयः 8.3.15