रल्लकः

सुधाव्याख्या

सेति । रमते । क्विप् (३.२.१७८) । गमादीनां क्वौ' (वा० ६.४.४०) इति मलोपः। तुक् (६.१.७१) । लाति । क्विप् (३.२.१७८) । रत् चासौ लश्च । स्वार्थे कन् (ज्ञापि० ५.४.५) । 'केऽणः’ (७.४.१३) इति ह्रस्वः । यद्वा रमणम् । सम्पदादिः (वा० ३.३.१०८) रत् क्रीडा लक्यतेऽनेन । ‘लक आस्वादने’ । घः (३.३.११८) । रतं लाति । क्वुन् (उ० २.३२) वा । ‘रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे’ इति हैमः ॥


प्रक्रिया

धातुः -


रमुँ क्रीडायाम्
रम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रम् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
रम् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रम् - वेरपृक्तस्य 6.1.67
- गमः क्वौ 6.4.40
र + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
रत्
ला आदाने
ला + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
ला + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ला - वेरपृक्तस्य 6.1.67
रत् + सु + ला + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
रत् + ला - सुपो धातुप्रातिपदिकयोः 2.4.71
रल् + ला - तोर्लि 8.4.60
रल्ला + कन् - न सामिवचने 5.4.5
रल्ला + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रल्लक - केऽणः 7.4.13
रल्लक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रल्लक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रल्लक + रु - ससजुषो रुः 8.2.66
रल्लक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रल्लकः - खरवसानयोर्विसर्जनीयः 8.3.15