कम्बलः

सुधाव्याख्या

कम्बति, कम्ब्यते, वा । ‘कम्ब गतौ’ () । वृषादित्वात् (उ० १.१०६) कलच् । संज्ञापूर्वकत्वान्नलोपो न । ‘कम्बलः क्रिमिसास्नयोः । नागप्रभेदे प्रावारे वैकक्ष्ये कम्बलं जले’ इति हैमः ॥