निचोलः

सुधाव्याख्या

नीति । निचोल्यते । ‘चुल समुच्छ्राये’ चुरादिः । घञ् (३.३.१९) । यद्वा चोड्यते । ‘चुड कृतौ’ चुरादिः । घञ् (३.३.१९) । डलयोरेकत्वम् । ‘निचोलं तु नपुंसकम्’ इति रभसः । स्त्रियां ‘निचोली’ इत्यपि–इति राजदेवः । निचुलोऽपि । ‘निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे’ (इति मेदिनी) ॥