पटः

सुधाव्याख्या

पटति । ‘पट गतौ’ (भ्वा० प० से०) । ‘पट विस्तारे’ (चु० उ० से०) वा । अच् (३.१.१३४) । यद्वा पठ्यतेऽनेन । ‘पट भासने’ (चु० उ० से०) ‘खनो घ च’ (३.३.१२५) इति घो षित्वादन्यस्मादपि । ‘हलश्च’ (३.३.१२१) इति घञि संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘क्वचिदपवादविषयेऽप्युत्सर्गाऽभिनिविशते’ () इति घञ् विषये ‘पुंसि-’ (३.३.११८) इति घो वा—‘घञर्थे कः’ (वा० ३.३.५८)–इति मुकुटः । तन्न । परिगणनात् । ‘पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे पुमान्’ (इति मेदिनी) । ‘अस्त्री’ इति चिन्त्यम् । द्वयोरदर्शनात् इति स्वाम्येव चिन्त्यः । उक्तरभसमेदिन्योः ‘अस्वी’ इति दर्शनात् ॥