कुलायः

सुधाव्याख्या

कुलेति । कुलं पक्षिसंतानोऽयतेऽत्र । ‘अय गतौ’ (भ्वा० अ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥ यद्वा कौ लायो गतिरस्मात् ॥—कुलान्ययन्ते नि:सरन्त्यतः । ‘हलश्च’ (३.३.१२१) इति घञ्–इति मुकुटः । तन्न । ‘हलश्च’ (३.३.१२१) इत्यत्र ‘करणाधिकरणयोः’ (३.३.१३७) इत्यनुवृत्तेरपादानेऽप्राप्तेः । ‘कुलायस्तु पुमान्स्थानमात्रे स्यात् पक्षिवासके’ (इति मेदिनी) ॥